Back
दशाक्षर सूर्यमंत्र प्रयोग

दशाक्षर सूर्यमंत्र प्रयोग

मंत्रः – ॐ ह्रीं घृणिः सूर्य आदित्य श्रीं ।

यह मंत्र आधिव्याधि एवं दरिद्रता नाशक है ।

विनियोगः – ॐ अस्य श्रीसूर्य मन्त्रस्य भृगुऋषिः , गायत्री छन्दः , दिवाकरो देवता , ह्रीं बीजम् , श्रीं शक्तिं , दृष्टादृष्ट सर्वाभीष्टफल सिद्धये जपे विनियोगः ।

ऋष्यादिन्यास : –ॐ भृगुऋषये नमः शिरसि।गायत्री छन्दसे नमः मुखे । दिवाकर देवतायै नमः हृदि । ह्रीं बीजाय नमः गुह्ये । श्रीं शक्तये नमः पादयो । विनियोगाय नमः सर्वाङ्गे ।

न्यासकरन्यासषङ्गन्यास
सत्यो तेजोज्वालामणे हुं फट् स्वाहाअंगुष्ठाभ्यां नमः ।हृदयाय नमः ।
ब्रह्मा तेजोज्वालामणे हुं फट् स्वाहातर्जनीभ्यां नमः ।शिरसे स्वाहा ।
विष्णु तेजोज्वालामणे हुं फट् स्वाहामध्यमाभ्यां नमः ।शिखायै वषट् ।
रुद्र तेजोज्वालामणे हुं फट् स्वाहाअनामिकाभ्यां नमः ।कवचाय हुम् ।
अग्नि तेजोज्वालामणे हुं फट् स्वाहाकनिष्ठिकाभ्यां नमः ।नेत्रत्रयाय वौषट् ।
सर्व तेजोज्वालामणे हुं फट् स्वाहाकरतल करपृष्ठाभ्यां नमः ।अस्त्राय फट् ।

अष्टांगन्यास – ह्रीं ॐ श्रीं हृदयाय नमः । ह्रीं धृं श्रीं शिरसे स्वाहा । ह्रीं णिं श्रीं शिखायै वषट् । ह्रीं सूं श्रीं कवचाय हुं । ह्रीं र्यं श्रीं नेत्रत्रयाय वौषट् । ह्रीं आं श्रीं अस्त्राय फट् । ह्रीं दिं श्रीं उदराय नमः उदरे । ह्रीं त्यं श्रीं पृष्ठाय नमः पृष्ठे ।

पञ्चमूर्तिन्यासः – ॐ लृं आदित्याय नमः शिरसि । ॐ ऋं रवये नमः मुखे । ॐ उं भानवे नमः हृदि । ॐ इं भास्कराय नम : लिंगे । ॐ अं सूर्याय नमः पादयोः ।

वर्णन्यासः – ॐ ह्रीं ॐ श्रीं नमः मूर्ध्नि । ॐ धृं श्रीं नमः मुखे । ॐ ह्रीं णिं श्रीं नमः कंठे । ॐ सूं श्रीं नमः हृदि । ॐ ह्रीं र्यं श्रीं नमः कुक्षौ । ॐ ह्रीं आं श्रीं नमः नाभौ । ॐ ह्रीं दिं श्रीं नम : जङ्घयोः । ॐ ह्रीं त्यं श्रीं नमः पादयोः ।

मंडलन्यास : –अं आं ….. अः सोममंडलाय नमः शिखादि कण्ठान्तम् । कं खं गं …. मं सूर्यमंडलाय नमः कण्ठादि नाभ्यान्तम् । यं रं लं …. क्षं वह्निमंडलाय नमः नाभ्यादि पादान्तम् ।

हंसन्यासः – अं आं इं …..क्षं हंसः पुरुषात्मने नमः इति सर्वाङ्गे ।

ग्रह न्यास – अंआं ….ऋं आदित्याय भगवते नमः आधारे।लृ लृ …. अः सोमाय भगवते नमः लिङ्गे । कं खं गं घं डं• अंगारकाय भगवते नमः नाभौ । चं छं जं झं ज्न्ं बुधाय भगवते नमः हृदि । टं ठं डं ढं णं बृहस्पतये भगवते नमः कण्ठे । तं थं दं धं नं शुक्राय भगवते नमः मुखमध्ये । पं फं बं भं मं शनैश्चराय भगवते नमः भ्रूमध्ये । यं रं लं वं राहवे भगवते नमः भाले । शं षं सं हं केतवे भगवते नमः ब्रह्मरंध्रे ।

ध्यानम् – शोणाम्भोरुह संस्थितं त्रिनयनं वेदत्रयी विग्रहं, दानाम्भोज युगाभयानि दधतं हस्तैः प्रवालप्रभम् । केयूराङ्गदहार कंकणधरं कर्णोल्लसत्कुण्डलं , लोकोत्पत्ति विनाश पालनकरं सूर्यं गुणाब्धिं भजे ॥१ ॥

रक्ताब्जयुग्माभय दान हस्तं केयूरहारांगद कुण्डलाढ्यम् । माणिक्यमौलिं दिननाथमीडे बंधूक कांतिं विलसत्रिनेत्रम् ॥२ ॥