Shree Sharada Gitam
श्रीशारदा गीतम्
कल्याणानि तनोतु काऽपि तरुणी शृङ्गाद्रिभूषायिता श्रीमच्छङ्करदेशिकेन्द्रकलितं चक्रं सदाधिष्ठिता । दूरस्थामपि पादनम्रजनतां विद्यायुरारोग्य सत् सन्तत्यादिमनोरथाप्तिसहितां सन्तन्वती सत्वरम् ॥1 शारदाम्ब शरदिन्दुनिभानन भासित निखिल दिगन्ते । पारदे भवमहाजलराशेः पावयमां विधिकान्ते ॥2 दन्तकान्तिजित कुन्दसुमे वरकुन्तल निर्धुतभृङ्गे । शान्तचित्तजन सन्तत चिन्तित कोटिचन्द्रसदृशाङ्गे ॥3 पादनम्रजन वाञ्छितपूरण निर्जित नन्दनवल्लिके । मादनेष्वसन गर्व निबर्हण दक्ष मनोहर चिल्लिके ॥4 ऋष्यशृङ्गपुर वासविलोले वश्ययन्त्र सदृशास्ये । पश्वदङ्घ्रि शुकदेवहूतिसुत कश्यपादि समुपास्ये ॥ ॐ ॥5
॥ इति दक्षिणाम्नाय शृङ्गेरी श्रीशारदापीठाधिपति शङ्कराचार्य जगद्गुरुवर्यो श्री चन्द्रशेखर भारती महास्वामिभिः विरचितम् श्री शारदा गीतम् सम्पूर्णम् ॥
