
Navagraha Kavach
॥नवग्रहकवचम्॥
ब्रह्मोवाच शिरो मे पातु मार्ताण्डो कपालं रोहिणीपतिः । मुखमङ्गारकः पातु कण्ठश्च शशिनन्दनः । बुद्धिं जीवः सदा पातु हृदयं भृगुनन्दनः । जठरञ्च शनिः पातु जिह्वां मे दितिनन्दनः । पादौ केतुः सदा पातु वाराः सर्वाङ्गमेव च । तिथयोऽष्टौ दिशः पान्तु नक्षत्राणि वपुः सदा । अंसौ राशिः सदा पातु योगाश्च स्थैर्यमेव च । गुह्यं लिङ्गं सदा पान्तु सर्वे ग्रहाः शुभप्रदाः । अणिमादीनि सर्वाणि लभते यः पठेद् ध्रुवम् ॥ एतां रक्षां पठेद् यस्तु भक्त्या स प्रयतः सुधीः । स चिरायुः सुखी पुत्री रणे च विजयी भवेत् ॥ अपुत्रो लभते पुत्रं धनार्थी धनमाप्नुयात् । दारार्थी लभते भार्यां सुरूपां सुमनोहराम् । रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बन्धनात् । जले स्थले चान्तरिक्षे कारागारे विशेषतः । यः करे धारयेन्नित्यं भयं तस्य न विद्यते । ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः । सर्वपापैः प्रमुच्येत कवचस्य च धारणात् ॥ नारी वामभुजे धृत्वा सुखैश्वर्यसमन्विता । काकवन्ध्या जन्मवन्ध्या मृतवत्सा च या भवेत् । बह्वपत्या जीववत्सा कवचस्य प्रसादतः ॥ ॥इति ग्रहयामले उत्तरखण्डे नवग्रह कवचं समाप्तम्॥
