Gopal Stavraj Stotra
॥गोपालस्तवराजस्तोत्रम्॥
श्री गणेशाय नमः । श्रीमद्गोपीजनवल्लभाय नमः । ॐ अस्य श्रीगोपालस्तवराजमन्त्रस्य श्रीनारद ऋषिः । अनुष्टुप् छन्दः । श्रीकृष्णः परमात्मा देवता । श्रीकृष्णप्रीत्यर्थे जपे विनोयोगः ॥ अथ ध्यानम् । सजलजलदनीलं दर्शितोदारशीलं करतलधृतशैलं वेणुवाद्यै रसालम् । व्रजजनकुलपालं कामिनीकेलिलोलं तरुणतुलसिमालं नौमि गोपालबालम् ॥ श्रीनारद उवाच । नवीननीरदश्यामं नीलेन्दीवरलोचनम् । बल्लवीनन्दनं वन्दे कृष्णं गोपालरूपिणम् ॥ १॥ स्फुरद्बर्हिदलोद्बद्धनीलकुञ्चितमूर्धजम् । कदम्बकुसुमोद्बद्धवनमालाविभूषितम् ॥ २॥ गण्डमण्डलसंसर्गिचलत्कुञ्चितकुन्तलम् । स्थूलं मुक्ताफलोदारहारोद्योतितवक्षसम् ॥ ३॥ हेमाङ्गदतुलाकोटिकिरीटोज्ज्वलविग्रहम् । मन्दमारुतसंक्षोभचलिताम्बरसञ्चयम् ॥ ४॥ रुचिरौष्ठपुटन्यस्तवंशीमधुरनिःस्वनैः । लसद्गोपालिकाचेतो मोहयन्तं पुनः पुनः ॥ ५॥ बल्लवीवदनाम्भोजमधुपानमधुव्रतम् । क्षोभयन्तं मनस्तासां सस्मेरापाङ्गवीक्षणैः ॥ ६॥ यौवनोद्भिदेहाभिः संसक्ताभिः परस्परम् । विचित्राम्बरभूषाभिर्गोपनारीभिरावृतम् ॥ ७॥ प्रभिन्नाञ्जनकालिन्दीजलकेलिकलोत्सुकम् । योधयन्तं क्वचिद्गोपान् व्याहरन्तं गवां गणम् ॥ ८॥ कालिन्दीजलसंसर्गिशीतलानिलसेविते । कदम्बपादपच्छाये स्थितं वृन्दावने क्वचित् ॥ ९॥ रत्नभूधरसंलग्नरत्नासनपरिग्रहम् । कल्पपादपमध्यस्थहेममण्डपिकागतम् ॥ १०॥ वसन्तकुसुमामोदसुरभीकृतदिङ्मुखे । गोवर्धनगिरौ रम्ये स्थितं रासरसोत्सुकम् ॥ ११॥ सव्यहस्ततलन्यस्तगिरिवर्यातपत्रकम् । खण्डिताखण्डलोन्मुक्तमुक्तासारघनाघनम् ॥ १२॥ वेणुवाद्यमहोल्लासकृतहुङ्कारनिःस्वनैः । सवत्सैरुन्मुखैः शश्वद्गोकुलैरभिवीक्षितम् ॥ १३॥ कृष्णमेवानुगायद्भिस्तच्चेष्टावशवर्तिभिः । दण्डपाशोद्यतकरैर्गोपालैरूपशोभितम् ॥ १४॥ नारदाद्यैर्मुनिश्रेष्ठैर्वेदवेदाङ्गपारगैः । प्रीतिसुस्निग्धया वाचा स्तूयमानं परात्परम् ॥ १५॥ य एवं चिन्तयेद्देवं भक्त्या संस्तौति मानवः । त्रिसन्ध्यं तस्य तुष्टोऽसौ ददाति वरमीप्सितम् ॥ १६॥ राजवल्लभतामेति भवेत्सर्वजनप्रियः । अचलां श्रियमाप्नोति स वाग्मी जायते ध्रुवम् ॥ १७॥ ॥ इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे चतुर्थरात्रे गोपालस्तवराजः सम्पूर्णः ॥
Related videos – https://youtu.be/WNk1uJPgnbg
