Back
Dvastrimshopachara Puja

Dvastrimshopachara Puja

शिवद्वास्त्रिंशोपचारपूजन

१ ध्यानम् --
ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं
     रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ।
पद्मासीनं समन्तात् स्तुतममरगणैर्व्याघ्रकृतिं वसानं
     विश्वाद्यं विश्ववन्द्यं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥

वन्दे देव उमापतिं सुरगुरुं वन्दे जगत्कारणं
     वन्दे पन्नगभूषणं मृगधरं,वन्दे पशूनां पतिम् ।
वन्दे सूर्यशशाङ्कवह्निनयनं,वन्दे मुकुन्दप्रियं
     वन्दे भक्तजनाश्रयं च वरदं,वन्दे शिवं शङ्करम् ॥

सिंहासनं कनकरत्नमणि प्रभास्वत्
     छत्रध्वजा लसित चामर तोरणाढ्यम् ।
बालार्क कोटि सदृशं कनकाम्बराढ्यं
     श्री विश्वनाथ तव ध्यानपरं करिष्ये ॥

२ आवाहनम् --
गन्धर्व किन्नर महर्षि सुरेन्द्रवृन्दैः
     संसेव्यमान मनिशं वृषभावरूढम् ।
आवाहयामि गिरिजासहितं प्रसन्नं
     भक्त्या सुखागतमहं शिरसा नमामि ॥

३ आसनम् --
सिंहासनं कनकरत्न मणि- प्रभास्वत्
     छत्रध्वजा लसित चामर तोरणाढ्यम् ।
बालार्क कोटि सदृशं कनकाम्बराढ्यं
     श्री विश्वनाथ ! मनसैव मयाऽर्पितं ते ॥

४ पाद्यम् --
दूर्वाङ्कुराम्बुज-मनोहर-पुष्पयुक्तं
     शुद्धं जलं सुरभि चूर्ण-समन्वितं च ।
सौवर्ण-पात्र-विलसत् पदयोर्विशुद्धं
     पाद्यं गृहाण जगदीश मयाऽर्पितं ते ॥

५ अर्घ्यम् --
दुर्वायवाक्षत सुगन्धि हिरण्य रत्नं
     दर्भाम्बुजं त्रिपथगा जल पुष्प युक्तम् ।
सौवर्ण पात्र रचितं फल युक्तमर्घ्यं
     त्वं स्वीकुरुष्व मनसार्पितमिन्दुमौलै ॥

६-आचमनीयम् --
गङ्गाजलैरमृत माधुरतामुपन्नै-
     रेलालविङ्ग शुभगन्ध मनोभिरामम् ।
गौरीपते कनकपात्र घृतं मया ते
भक्त्यार्पितं सुचिरमाचमनं गृहाण ॥

७ स्नानम् --
दिव्यदृमेन्धन- समिध्ध - हुताशनाप्तैः
     शुद्धोदकैः सविमलैश्च समुद्रजैश्च ।
गौरीपते परिगृहाण यथा सुखेन
     स्नानम्मयैव विधिना विधिवत् प्रदिष्टम् ॥

८ पयः स्नानम्--
दिव्योषधि द्रवभवं नवनीतपूर्णं
     क्षीराब्धिसम्भृत सुधाधिकधामधारम् ।
स्वर्धेनु सम्भवमपूर्व- सुमिष्ठमेतं
     स्नानाय शुद्ध मुररीकुरु देवदुग्धम् ॥

९ दधि स्नानम् --
कर्पूर-कुन्द-कुमुदेन्दु-करावदन्तं
     मल्लि प्रफुल्ल- कुसुमाकर- कान्ति कान्तम् ।
स्नानाय शुद्ध रसराज सुकोमलार्चिः
     स्निग्धं शुभं दधि दयानिधयेऽर्पयामि ॥

१० घृत स्नानम् --
तेजोमयेन तपन द्युतिपावितेन
     गव्येन भव्य विविधिना परमन्त्रितेन ।
वह्नौ सृतेन रचयामि रसावृतेन
     भौमामृते न च घृतेन तवाभिषेकम् ॥

११ मधु स्नानम् --
नानाविधौषधि लता-रस-सम्भृतान्तं
     माधुर्यमिष्टममृतं प्रतिमं गुणेन ।
माणिक्य पात्र सम पूरित भक्ति पूर्ण -
     मङ्गी कुरुष्व मधु देव महेश शम्भो ॥

१२ शर्करा स्नानम् --
पूरणेक्षुसागर समुद्र भव याऽति निम्ना
     मुक्ताफलद्रुम- सुधाधिकया महिम्ना ।
सर्वाङ्ग शोधनविधौ वरया त्रिनेत्र
     सुस्नाहि सिद्ध वर शर्करया महेश ॥

१३ गन्धोदक स्नानम् --
कङ्कोल कुण्ड्मल दलैल- लवङ्ग मिश्रं
     जातिफला मध -सुगन्धि समन्वितं च ।
कर्पूर केसर सुगन्धिभिरिन्दुमौलै
     स्नानाय शुद्धतरगन्धमिदं गृहाण ॥

१४ उद्वर्तन स्नानम् --
जातिजपा कनक पङ्कज मोगराद्यै-
     रन्यैश्च काल भव पुष्प समन्विते च ।
भक्त्या मया सुमनसैव सुवासितं च
     गौरीपते सुरभि तैलमिदं गृहाण ॥

१५ शुद्धोदक स्नानम् --
श्री जाह्नवी जलमयं सरसं सुधाव-
     च्चैला लविङ्ग शुभगन्ध मनोभिरामम् ॥

गौरीपते कनकपात्रधृतं मया ते
     स्नानं गृहाण जगदीश मयाऽर्पितं ते ॥

१६ वस्त्रम् --
कौशेय-वस्त्र युगलं कनकैर्विचित्रं
     बालार्क कोटि सदृशं च मनोभिरामम् ।
भक्त्या मयार्पितमिदं परिधाय शम्भो
     सिंहासने त्वमुपविश्य गृहाण पूजाम् ॥

१७ यज्ञोपवीतम् --
दत्तम्मया सुमनसा वचसा करेण
     यद् ब्रह्मचर्यसमयं परमं पवित्रम् ।
यद् धर्मकर्म निलयं परमायुषं च
     यज्ञोपवीत मुररीकुरु विश्वनाथ ॥

१८ गन्धम्- चन्दनम् --
यद् श्रेष्ठमस्ति मलयाचल चन्दनानां
     कर्पूर केसर- सुगन्धि-रसेन घृष्टम् ।
आमोद -मान मनिशं मनसा धृतं च
     श्री चन्दनं त्व मुररी कुरु दीनबन्धो ॥

१९ अक्षतान् --
श्वेतेरखण्डित-मनोहर शालीबीजैः
     संक्षालितैः शुचिजलैश्च सुगन्धिमिश्रैः ।
त्वामर्चयामि भगवन् मनसा महेशं
     गौरीपते मयि निधेहि कृपाकटाक्ष ॥

-२० पुष्पम् --
पुन्नाग जाति बकुलाब्ज रसाल पुष्पै-
     र्बिल्व प्रवालैस्तुलसी समन्वितैः ।
श्री पारिजातादि- समुद् भवैश्च
     करोमि पूजां भगवन् गृहाण ॥

२१ पुष्पमाला--
सेवन्तिका- बकुल चम्पक पाटलाब्जैः
     पुन्नाग जाति-करवीर- रसाल पुष्पैः ।
बिल्व प्रवाल-तुलसीदल-मालतीभि
     स्त्वां पूजयामि जगदीश्वर मे प्रसीद ॥

२२ परिमल सौभाग्य द्रव्य --
श्वेताबिरेण सहितं शुभ रक्त चूर्णं
     सिन्दूरचूर्ण विपुलान्वित पीतचूर्णम् ।
कर्पूर केसर सुगन्धि सुवासितं च
     सौभाग्यचूर्ण मुररीकुरु दीनबन्धो ॥

२३ धूपम् --
कालागरोश्च घृतमिश्रित गुग्गुलस्य
     धूपो मया विरचितो भवतः पुरस्तात् ।
आघ्रायतां शुचि मनोहर गन्ध पूर्णं
     तूर्णं  विनाशय महेश्वर मोहजालम् ॥

२४ दीपम् --
पूर्णे घृतेन गिरिजेश सुवर्णपात्रे
     कौसुम्भ सूत्र- द्रढ वर्ति विराजमानः ॥

दीपः पुरस्तव मया रचितो य एष
     शीघ्रं विनाशयतु मे दुरितान्धकारम् ॥

२५ नैवेद्यम् --
जिह्वा सुधा-कनकपात्र विराजमानं
     मन्त्रादिकं  मधुर शाक-फलावलीढम् ।
पञ्चामृत प्लुतमनेकविधं रसौघं
     सङ्कल्पितं त्व मुररीकुरु दीनबन्धो ॥

२६- मुखशुद्ध्यर्थे फलं
कलिङ्ग कोशातक संयुतानि
     जम्बीर नारिङ्ग- समन्वितानि ।
सुनारिकेलानि च दाडिमानि
फलानि ते देव समर्पयामि ॥

२७ मुखवासार्थे ताबूलम् --
पूगैः स चूर्ण खदीरैर्नवजाति पत्रै-
     र्जातिफलादिक लविङ्ग समन्वितैश्च ।
ताम्बूल वीटकमिदं मनसा धृतं यत्
     तत् स्वीकुरु प्रमथनाथ महेश शम्भो ॥

२८ दक्षिणा --
विभावसोर्बीजमिदं हिरण्यद्रव्यं
     दिव्यं प्रकाशं विधिगर्भ संस्थम् ।
गृहाण भूताधिपते महेश
     मुद्रार्पणं वै मनसार्पितं ते ॥

२९ प्रदक्षिणाम् --
पदे पदे या परिपूजकेभ्यः
     सद्योश्वमेधादि फलं ददाति ।
तां सर्व पापक्षय हेतुभूतां,
     प्रदक्षिणां मे परितः करोमि ॥

३० मन्त्र पुष्पाञ्जलिम् --
चरणकमल युग्मं पङ्कजैः पूजयित्वा
     कनककमलमालां कण्ठदेशेऽर्पयित्वा ।
शिरसि विनिहितोयं मन्त्रपुष्पाञ्जलिस्ते
     हृदयकमलमध्ये देव हर्षं तनोतु ॥

३१ नमस्कारः --
शान्तं पद्मासनस्थं शशिधरमुकुटं पञ्चवक्त्रं त्रिनेत्रं
     शूलं वज्रं च खड्गं परशुमभयदं दक्षिणाङ्गे वहन्तम् ।
नागं पाशं च घण्टां डमरुकसहितं चाङ्कुशं वामभागे
     नानालङ्कारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥

पीठं यस्याः धरित्री जलधरकलशा लिङ्गमाकाशमूर्तिः
     नक्षत्रं पुष्पमाला ग्रहगणकुसुमं नेत्रचन्द्रार्कवह्निः ।
कुक्षौ सप्तसमुद्रं भुजगिरिशिखरं सप्तपातालपादं
     वेदं वक्त्रं षडङ्गं दशदिशिवसनं दिव्यलिङ्गं नमामि ॥

पाताले चान्तरिक्षे दशदिशिवदने सर्वशैले समुद्रे ।
भस्मे काष्ठे च लोष्ठे क्षिति जलपवने स्थावरे जङ्गमेवा ॥

बीजे सर्वौषधिनां असुरसुरपतौ पुष्पपत्रे तृणाग्रे ।
एको व्यापी शिवोऽहमिति वदति हरिर्नास्ति देवो द्वितीयः ॥

कण्ठे यस्य विराजते हि गरलं शीर्षै च मन्दाकिनी
     वामाङ्के गिरिजाननं कटितटे शार्दूलचर्माम्बरम् ।
माया यस्य रुणाद्धि विश्वमखिलं तस्मै नमः शम्भवे
     जम्बुवज्जलबिन्दुवज्जलजवज्जम्बालवज्जालवत् ॥

शिवं शान्तं शुद्धं प्रकटमकलङ्कं श्रुतितनुं
     महेशानं शम्भुं सकलसुरसंसेव्यचरणम् ।
गिरीशं गौरीशं भवभयहरं निष्कलमजं
     महादेवं वन्दे प्रणत जनतापोपशमनम् ॥

गिरीशं गणेशं गले नीलवर्णं
     गजेन्द्राधिरूढं गुणातीतरूपम् ।
भवं भास्वरं भस्मना भूषिताङ्गं
     भवानी कलत्रं भजे पञ्चवक्त्रम् ॥

३२ क्षमापना --
करचरणकृतं वाक्कायजं कर्मजं वा
     श्रवणनयनजं वा मानसं वाऽपराधम् ।
विहितमविहितं वा सर्वमेतत् क्षमस्व
     जय जय करुणाब्धे श्रीमहादेव शम्भो ॥