Back

Tulasi Puja :

      ॥ अथ तुलसी पूजा प्रारंभः ॥
      ॥ श्रीगणेशाय नमः ॥ 
      ॥ अथ तुलसीपूजनं लिख्यते ॥   
      ॥ श्रीमहादेव उवाच ॥ 

शुभे पक्षे शुभे वारे शुभे ऋक्षे शुभोदये ।
केशवार्थे शुभांशे च रोपयेत्तुलसीं मुनिः ॥ १॥ 
गृहस्थो गृहमध्ये वा गृहस्थोपवनेपि वा ।
शुचौ देशे तु तुलसीमर्च्चयेद्बुद्धिमान्नरः ॥ २॥ 
मूले च वेदिकां कृत्वा आलवालसमन्विताम् ।
प्रातःसंध्याविधिं कृत्वा स्नानपूर्वं दिने दिने ॥ ३॥ 
गायत्र्यष्टजपं कृत्वा तुलसीं पूजयेत्ततः ।
प्राङ्मुखोदङ्मुखो वापि स्थित्वा प्रयतमानसः ॥ ४॥ 
ध्यायेच्च तुलसीं देवीं श्यामां कमललोचनाम्
प्रसन्नपद्मकल्हारवराभयचतुर्भुजाम् ॥ ५॥ 
किरीटहारकेयूरकुंडलादिविभूषिताम् ।
धवलांशुकसंयुक्तां पद्मासननिषेदुषीम् ॥ ६॥   इति ध्यानम् ॥ 
देवि त्रैलोक्यजननि सर्वलोकैकपावनि ।
आगच्छ भगवत्यत्र प्रसीद तुलसि द्रुतम् ॥ ७॥  आवाहनम् ॥ 
सर्व देवमये देवि सर्वदा विष्णुवल्लभे ।
रत्नस्वर्णमयं दिव्यं गृहाणासनमव्यये ॥ ८॥   आसनम् ॥ 
सर्वदेवमयाकारे सर्वदेवनमोऽस्तुते ।
पाद्यं गृहाण देवेशि तुलसि त्वं प्रसीद मे ॥ ९॥  पाद्यम् ॥ 
सर्व देवमयाकारे सर्वांगमणिशोभिते ।
इदमर्घंगृहानत्वं देवि दैत्यांन्तकप्रिये ॥ १०॥  अर्घ्यम् ॥ 
सर्वलोकस्य रक्षार्थं सदा संनिधिकाररिणि ॥ 
गृहाण तुलसि प्रीत्या इदमाचमनीयकं ॥ ११॥  आचमनम् ॥ 
गंगादिभ्यो नदीभ्यश्च समानीतमिदं जलम् ।
स्नानार्थं तुलसि स्वच्छं प्रीत्या तत्प्रतिगृत्द्यताम् ॥ १२॥  स्नानम् ॥ 
क्षिरोदमथनोद्भूते चंद्रलक्ष्मीसहोदरे ।
गृत्द्यतां परिधानार्थमिदं क्षौमांबरं शुभे ॥ १३॥  वस्त्रम् ॥ 
श्रीगंधं कुंकुमं दिव्यं कर्पूरागरुसंयुतम् ।
कल्पितं ते महादेवि प्रीत्यर्थं प्रतिगृत्द्यताम् ॥ १४॥  गंधम् ॥ 
नीलोत्पलं तु कल्हारमालत्यादीनि शोभने ।
पद्मादिगंधवंतीनि पुष्पाणि प्रतिगृत्द्यताम् ॥ १५॥  पुष्पम् ॥ 
धूपं गृहाण् देवेशि मनोहारि सगुग्गलम् ।
आज्यमिस्रं तु तुलसि भक्ताभिष्टप्रदायिनि ॥ १६॥  धूपम् ॥ 
अज्ञानतिमिरांधस्य ज्ञानदीपप्रदायिनी ।
त्वया तु तुलसि प्रिता दीपोयं प्रतिगृत्द्यताम् ॥ १७॥  दीपम् ।
नमस्ते जगतां नाथे प्राणिनां प्रियदर्शने ।
यथाशक्ति मया दत्तं नैवेद्यम् प्रतिगृत्द्यताम् ॥ १८॥  नैवेद्यम् ॥ 
नमो भगवते श्रेष्ठे नारयनजगन्मये ।
तुलसि त्वरया देवि पानीयं प्रतिगृत्द्यताम् ॥ १९॥  पानीयम् ॥ 
अमृतेमृतसंभूते तुलस्यमृतरूपिणि ।
कर्पूरादिसमायुक्तं तांबूलं प्रतिगृत्द्यताम् ॥ २०॥  तांबूलम् ॥ 
दक्षिणा दक्षिणकरे त्वद्भक्तानां प्रियंकरि ।
करोमि ते सदा भक्त्या विष्णुकांते प्रदक्षिणाम् ॥ २१॥ 
नमो नमो जगद्धात्र्यै जगदाद्यै नमो नमः ।
नमो नमो जगद्भूत्यै नमस्ते परमेश्वरि ॥ २२॥ 
प्रसीद मम देवेशि कृपया परया सदा ।
अभिष्टफलसिद्ध्यर्थ कुरु मे माधवप्रिये ॥ २३॥ 
इत्येवमर्च्चयेन्नित्यं प्रातरेव शुचिर्नरः ।
मध्याह्ने वाथ सायाह्ने पूजयेत्प्रयतो नरः ॥ २४॥ 

॥ इति तुलसीपूजासम्पूर्णा ॥