Laxmi Strotra :
श्रीगणेशाय नमः । ॐ नमः कमलवासिन्यै नारायण्यै नमो नमः । कृष्णप्रियायै सारायै पद्मायै च नमो नमः ॥ १॥ पद्मपत्रेक्षणायै च पद्मास्यायै नमो नमः । पद्मासनायै पद्मिन्यै वैष्णव्यै च नमो नमः ॥ २॥ सर्वसम्पत्स्वरूपायै सर्वदात्र्यै नमो नमः । सुखदायै मोक्षदायै सिद्धिदायै नमो नमः ॥ ३॥ हरिभक्तिप्रदात्र्यै च हर्षदात्र्यै नमो नमः । कृष्णवक्षःस्थितायै च कृष्णेशायै नमो नमः ॥ ४॥ कृष्णशोभास्वरूपायै रत्नपद्मे च शोभने । सम्पत्यधिष्ठातृदेव्यै महादेव्यै नमो नमः ॥ ५॥ शन्याधिष्ठादेव्यै च शस्यायै च नमो नमः । नमो बुद्धिस्वरूपायै बुद्धिदायै नमो नमः ॥ ६॥ वैकुण्ठे या महालक्ष्मीर्लक्ष्मीः क्षीरोदसागरे । स्वर्गलक्ष्मीरिन्द्रगेहे राजलक्ष्मीर्नपालये ॥ ७॥ गृहलक्ष्मीश्च गृहिणां गेहे च गृहदेवता । सुरभि सा गवां माता दक्षिणा यज्ञकामनी ॥ ८॥ अदितिर्देवमाता त्वं कमला कमलालये । स्वाहा त्वं च हविर्दाने कव्यदाने स्वधा स्मृता ॥ ९॥ त्वं हि विष्णुस्वरूपा च सर्वाधारा वसुन्धरा । शुद्धसत्वस्वरूपा त्वं नारायणपरायाणा ॥ १०॥ क्रोधहिंसावर्जिता च वरदा च शुभानना । परमार्थप्रदा त्वं च हरिदास्यप्रदा परा ॥ ११॥ यया विना जगत् सर्वे भस्मीभूतमसारकम् । जीवन्मृतं च विश्वं च शवतुल्यं यया विना ॥ १२॥ सर्वेषां च परा त्वं हि सर्वबान्धवरूपिणी । यया विना न सम्भाप्यो बाध्ववैर्बान्धवः सदा ॥ १३॥ त्वया हीनो बन्धुहीनस्वत्वया युक्तः सबान्धवः । धर्मार्थकाममोक्षाणां त्वं च कारणरूपिणी ॥ १४॥ यथा माता स्तनन्धानां शिशूनां शैशवे सदा । तथा त्वं सर्वदा माता सर्वेषां सर्वरूपताः ॥ १५॥ मातृहीन स्नत्यक्तः स चेज्जीवति दैवतः । त्वया हीनो जनःकोऽपि न जीवत्येव निश्चितम् ॥ १६॥ सुप्रसन्नस्वरूपा त्वं मां प्रसन्ना भवाम्बिके । वैरिग्रस्तं च विषयं देहि मह्मं सनातनि ॥ १७॥ वयं यावत् त्वया हीना बन्धुहीनश्च भिक्षुकाः । सर्वसम्पद्विहीनाश्च तावदेव हरिप्रिये ॥ १८॥ राज्यं देहि श्रियं देहि बलं देहि सुरेश्वरि । कीर्ति देहि धनं देहि यशो मह्मं च देहि वै ॥ १९॥ कामं देहि मतिं देहि भोगान देहि हरिप्रिये । ज्ञानं देहि च धर्मे च सर्वसौभाग्यमीप्सितम् ॥ २०॥ प्रभावां च प्रतापं च सर्वाधिकारमेव च । जयं पराक्रमं युद्धे परमैश्वर्यमैव च ॥ २१॥ इत्युक्त्वा च महेन्द्रश्च सर्वैः सुरगणैः सह । प्रणमाम साश्रुनेत्रो मूर्ध्ना चैव पुनः पुनः ॥ २२॥ ब्रह्मा च शङ्करश्चैव शेषो धर्मश्च केशवः । सर्वेचक्रुः परिहारं सुरार्थे च पुनः पुनः ॥ २३॥ देवेभ्यश्च वरं दत्वा पुष्पमालां मनोहराम् । केशवाय ददा लक्ष्मीः सन्तुष्टा सुरसंसदि ॥ २४॥ ययुदैवाश्च सन्तुष्टाः स्वं स्वं स्थानञ्च नारद । देवी ययोऐ हरेः क्रोडं दृष्टा क्षीरोदशायिनः ॥ २५॥ ययतुश्चैय स्वगृहं ब्रह्मेशानी च नारद । दत्वा शुभाशिषं तौ च देवेभ्यः प्रीतिपूर्वकम् ॥ २६॥ इदं स्तोत्रं महापुण्यं त्रिसन्ध्यं यः पठेन्न्रः । कुबेरतुल्यः स भवेत् राजराजेश्वरो महान् ॥ २७॥ सिद्धस्तोत्रं यदि पठेत् सोऽपि कल्पतरूर्नरः । पञ्चलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् ॥ २८॥ सिद्धस्तोत्रं यदि पठेन्मासमेकं च संयतः । महासुखी च राजेन्द्रो भविष्यति न संशयः ॥ २९॥
॥ इतिश्री इन्द्रकृतं लक्ष्मीस्तोत्रम् सम्पूर्णम् ॥
