
श्रीसूर्य वज्रपञ्जर कवचम्
॥ श्री भैरव उवाच ॥
यो देव देवो भगवान् भास्करो महसां निधिः । गायत्रीनायको भास्वान् सवितेति प्रगीयते ॥१ ॥
तस्याहं कवच दिव्यं वज्रपंजरकाभिधम् । सर्वमंत्रमयं गुह्यं मूलविद्यारहस्यकम् ॥२ ॥
सर्वपापापहं देवि ! दुःख – दारिद्र्य नाशनम् । महाकुष्ठहरं पुण्यं सर्वरोगनिवर्हणम् ॥३ ॥
सर्वशत्रुसमूहघ्नं संग्रामे विजयप्रदम् । सर्वतेजोमयं सर्वदेवदानव पूजितम् ॥४ ॥
रणे राजभये घोरे सर्वोपद्रवनाशनम् । मातृका वेष्टितं वर्म भैरवानन निर्गतम् ॥५॥
ग्रहपीडाहरं देवि ! सर्व संकट नाशनम् । धारणादस्य देवेशि ! ब्रह्मा लोक पितामह ॥६॥
विष्णुर्नारायणो देवि ! रणे दैत्याञ्जयिष्यति । शङ्करः सर्वलोकेशो वासवोऽपि दिवस्पतिः ॥७॥
औषधीश : शशि देवी ! शिवोऽहं भैरवेश्वरः । मन्त्रान्तकं परं वर्म सवितुः सारमुत्तमम् ॥८॥
यो धारयेद् भुजे मूर्ध्नि रविवारे महेश्वरि ! । स राजवल्लभो लोके तेजस्वी वैरिमर्दनः ॥९॥
बहुनोक्तेन किं देवि ! कवचस्यास्य धारणात् । इह लक्ष्मीधनारोग्यवृद्धिर्भवति नान्यथा ॥१०॥
परत्र परमा मुक्तिः देवानामपि दुर्लभा । कवचस्यास्य देवेशि ! मूलविद्यामयस्य च ॥११॥
वज्रपंजरकाख्यस्य मुनिर्ब्रह्मा समीरितः । गायत्र्यं छन्द इत्युक्तं देवता सविता स्मृतः ॥१२॥
माया बीजं शरत् शक्तिः नमः कीलकमीश्वरि ! । सर्वार्थ साधने देवि ! विनियोगः प्रकीर्तितः ॥१३ ॥
विनियोगः – ॐ अस्य श्रीवज्रपञ्जर कवचस्य ब्रह्मा ऋषिः , गायत्र्यं छन्दः , श्रीसविता देवता , ह्रीं बीजं , सः शक्तिः , नमः कीलकं , सर्वार्थ साधने वज्रपंजरकवच पाठे विनियोगः ।
ऋष्यादि न्यासः- ब्रह्मा ऋषये नमः शिरसि , गायत्र्यं छन्दसे नमः मुखे , श्रीसविता देवतायै नमः हृदि , ह्रीं बीजाय नमः गुह्ये , सः शक्तये नमः नाभौ , नमः कीलकाय नमः पादयोः , सर्वार्थ साधने वज्रपंजर कवच पाठे विनियोगाय नमः अञ्जलौ ।
ध्यानम् रक्ताम्बुजासनमशेष गुणैकसिन्धुम् , भानुं समस्त जनतामधिपं भजामि । पद्मद्वयाभयवरान् दधतं कराब्जै- र्माणिक्य मौलिमरुणाङ्गरुचिं त्रिनेत्रम् ॥
मानस पूजन कर कवच पाठ करें यथा
॥ कवच पाठ ॥
ॐ अं आं इं ईं शिरः पातु ओं सूर्यो मंत्रविग्रहः । उं ऊ ऋं ऋृं – ललाटं मे ह्रां रविः पातु चिन्मयः ॥१॥
लृं लॄं एं ऐं पातु नेत्रे , ह्रीं ममारुण – सारथिः । ओं औं अं अः श्रुती पातु , सः सर्वजगदीश्वरः ॥२॥
कं खं गं घं पातु गण्डौ , सूं सूरः सुरपूजितः । चं छं जं झं च नासां मे , पातु याँ अर्यमा प्रभुः ॥३॥
टं ठं डं ढं मुखं पायाद् यं योगीश्वर पूजितः । तं थं दं धं गलं पातु , नं नारायणवल्लभः ॥४॥
पं फं बं भं मम स्कंधौ , पातु मां महसां निधिः । यं रं लं वं भुजौ पातु , मूलं सकलनायकः ॥५॥
शं षं सं हं पातु वक्षो , मूलमंत्रमयो धुवः । ळं क्षः कुक्षिं सदा पातु , ग्रहनाथो दिनेश्वरः ॥६॥
ङं ञं णं नं मं मे पातु , पृष्ठं दिवस नायकः । अं आं इं ई उं ऊं ऋं ऋृं , नाभिं पातु तमोपहः ॥७॥
लृं लॄं एं ऐं ओं औं अं अः लिङ्गं मेऽव्याद् ग्रहेश्वरः । कं खं गं घं चं छं जं झं , कटिं भानुर्ममाऽवतु ॥८॥
टं ठं डं ढं तं थं दं धं जानू भास्वान् ममाऽवतु । पं फं बं भं यं रं लं वं , जङ्घे मेऽव्याद् विभाकरः ॥९॥
शं षं सं हं ळं क्षः पातु , मूलं पादौ त्रयीतनुः । ङं ञं णं नं मं मे पातु सविता , सकलं वपुः ॥१०॥
सोमः पूर्वे च मां पातु , भौमोऽग्नौ मां सदाऽवतु । बुधो मां दक्षिणे पातु , नैऋत्यां गुरुरेव माम् ॥११॥
पश्चिमे मां सितः पातु , वायव्यां मां शनैश्चरः । उत्तरे मां तमः पायादैशान्यां मां शिखी तथा ॥१२॥
ऊर्ध्वं मां पातु मिहिरो , मामधस्ताज्जगत्पतिः । प्रभाते भास्करः पातु , मध्याह्ने मां दिनेश्वरः ॥१३॥
सायं वेदप्रियः पातु निशीथे विस्फुरापतिः । सर्वत्र सर्वदा सूर्यः पातु मां चक्रनायकः ॥१४॥
रणे राजकुले द्यूते विवादे शत्रु – सङ्कटे । संग्रामे च ज्वरे रोगे , पातु मां सविता प्रभुः ॥१५॥
ॐ ॐ ॐ उत ॐ उ ऊ हसमयः सूर्योऽवतान्मां भयाद् ह्रां ह्रीं ह्रूं ह ह हा हसौः हसहसौः हंसोऽवतात् सर्वतः । सः सः सः सससा नृपाद्वनचराच्चौराद्रणात् संकटात् , पायान्मां कुलनायकोऽपि सविता ॐ ह्रीं हसौः सर्वदा ॥१६ ॥
द्रां द्रीं द्रूं दधनं तथा च तरणिर्भांभैर्भयाद् भास्करो , रां रीं रूं रु रु रूं रविर्ज्वरभयात् कुष्ठाच्च शूलामयात् । अं अं आं विविवीं महामयभयं मां पातु मार्तण्डको , मूलव्याप्ततनुः सदाऽवतु परं सहस्त्रांशुमान ॥१७॥
॥ फलश्रुति ॥
इति श्रीकवचं दिव्यं , वज्रपञ्जरकाभिधम् । सर्वदेव रहस्यं च मातृका मंत्र वेष्टितम् ॥१ ॥
महारोगभयघ्नं च पापघ्नं मन्मुखोदितम् । गुह्यं यशस्करं पुण्यं सर्वश्रेयस्करं शिवे ! ॥२ ॥
लिखित्वा रविवारे तु तिष्ये वा जन्मभे प्रिये ! । अष्टगंधेन दिव्येन सुधाक्षीरेण पार्वति ! ॥३ ॥
अर्क क्षीरेण पुण्येन भूर्जत्वचि महेश्वरि ! । कनकीकाष्ठ लेखन्या कवचं भास्करोदये ॥४ ॥
श्वेतसूत्रेण रक्तेन श्यामेनावेष्टयेद् गुटीम् । सौवर्णेनाथ संवेष्ट्य धारयेत् मूर्ध्नि वा भुजे ॥५ ॥
रणे रिपूञ्जयेद् देवि ! वादे सदसि जेष्यति । राजमान्यो भवेन्नित्यं सर्वतेजोमयो भवेत् ॥६ ॥
कण्ठस्था पुत्रदा देवि ! कुक्षिस्था रोगनाशिनी । शिरस्थाः गुटिका दिव्या राजलोकवशङ्करी ॥७॥
भुजस्था धनदा नित्यं तेजोबुद्धि विवर्धिनी । वन्ध्या वा काकवन्ध्या वा मृतवत्सा च याङ्गना ॥८॥
कण्ठे सा धारयेन्नित्यं बहुपुत्रा प्रजायते । यस्य देहे भवेन्नित्यं गुटिकैषा महेश्वरि ! ॥९॥
महाराणीन्द्र मुक्तानि ब्रह्मास्त्रादीनि पार्वति ! । तद् देहं प्राप्य व्यर्थानि भविष्यन्ति न संशयः ॥१०॥
त्रिकालं यः पठेन्नित्यं कवचं वज्रपञ्जरम् । तस्य सद्यो महादेवि ! सविता वरदो भवेत् ॥११ ॥
अज्ञात्वा कवचं देवि ! पूजयेद् यस्त्रयीतनुम् । तस्य पूजार्जितं पुण्यं जन्मकोटिषु निष्फलम् ॥१२॥
शतावर्तं पठेद् वर्म सप्तम्यां रविवासरे । महाकुष्ठार्दितो देवि ! मुच्यते नात्र संशयः ॥१३॥
नीरोगो यः पठेद् वर्म दरिद्रो वज्रपञ्जरम् । लक्ष्मीवाञ्जायते देवि ! सद्यः सूर्यप्रसादतः ॥१४॥
भक्तया यः प्रपठेद् देवि ! कवचं प्रत्यहं प्रिये ! । इह लोके श्रियं भुक्त्वा देहान्ते मुक्तिमाप्नुयात् ॥१५॥
॥ इति श्रीरुद्रयामले श्री सूर्य वज्रपञ्जर कवचम् ॥
