
सूर्यस्याष्टोत्तर शतनाम स्तोत्रम्
॥ जन्मेजय उवाच ॥
कथं कुरुणामृषभः स तु राजा युधिष्ठिरः । विप्रार्थमाराधितवान् सूर्यमद्भुत दर्शनम् ॥१॥
॥ वैशम्पायन उवाच ॥
शृणुष्वावहितो राजन् ! शुचिर्भूत्त्वा समाहितः । क्षणं च कुरु राजेन्द्र ! सम्प्रवक्ष्याम्यशेषतः ॥२॥
धौम्येन तु यथा पूर्वेपार्थाय सु – महात्मने । नामाष्टशतमाख्यात तच्छृणुष्व महामते ॥३॥
॥ धौम्य उवाच ॥
सूर्योऽर्यमा भगस्त्वष्टा पूर्वार्कः सविता रविः । गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः ॥४॥
पृथिव्यापश्च तेजश्च खं वायुश्च परायणम् । सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च ॥५॥
इन्द्रो विवस्वान् दीप्तांशुः शुचिः शौरि शनैश्चरः । ब्रह्मा विष्णु रुद्रश्च स्कंदो वै वरुणो यमः ॥६॥
वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः । धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः ॥७॥
कृतं त्रेता द्वापरश्च कलि सर्वमलाश्रयः । कला काष्ठा मुहूर्ताश्च क्षपा यामस्तथा क्षणः ॥८॥
संवत्सरकरोऽश्वत्थ कालचक्रो विभावसुः । पुरुषः शाश्वतो योगी व्यक्ताव्यक्त सनातनः ॥९ ॥
कालाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः । वरुणः सागरोंऽशुश्च जीमूतो जीवनोऽरिहा ॥१०॥
भूताश्रयो भूतपतिः सर्वलोकनमस्कृतः । स्रष्टा संवर्तको वह्निः सर्वस्यादिरलोलुपः ॥११॥
अनंतः कपिलो भानुः कामदः सर्वतोमुखः । जयो विशालो वरदः सर्वधातु निषेचिता ॥१२॥
मनः सुपर्णो भूतादिः शीघ्रगः प्राणधारकः । धन्वन्तरिधूमकेतुरादि देवोऽदितेः सुतः ॥१३॥
द्वादशात्माऽरविंदाक्षः पिता माता पितामहः । प्रजाद्वारं सर्गद्वारं मोक्षद्वारं त्रिविष्टरम् ॥१४ ॥
दाहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः । चराचरात्मा सूक्षात्मा मैत्रेयः करुणान्वितः ॥१५ ॥
॥ फलश्रुति ॥
एतद् वै कीर्तनीयस्य सूर्यस्यामिततेजसः । नामाष्टशतकं वेदं प्रोक्तमेतत् स्वयंभुवा ॥१॥
सुरगण पितृ यक्षसेवितं ह्यसुरनिशाचर सिद्धवन्दितम् । वरकनक हुताशनप्रभं प्रणिपतितोऽसि हिताय भास्करम् ॥२ ॥
सूर्योदये . यः सुसमाहितः पठेत् सपुत्रदारान् धनरत्नसंचयान् । लभेत् जातिस्मरतां नरः सदा धृतिं च मेधां च स विन्दते पुमान् ॥३॥
इमं स्तवं देववरस्य यो नरः प्रकीर्तयेच्छुचि सुमनाः समाहितः । विमुच्यते शोकदावाग्नि सागराल्लभेत् कामान् मनसा यथेप्सितान् ॥४॥
॥ इति महाभारते वनपर्वणि धौम्य युधिष्ठर संवादे श्रीसूर्यस्याष्टोत्तरशतनाम स्तोत्रं समाप्तम् ॥
