
आदित्यहृदय स्तोत्रम्
॥ पूर्व पीठिका ॥
ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् । रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥१॥
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् । उपगम्याब्रवीद राममगस्त्यो भगवांस्तदा ॥२॥
राम राम महाबाहो शृणु गुह्यं सनातनम् । येन सर्वानरीन् वत्स समरे विजयिष्यसे ॥३॥
आदित्य हृदयं पुण्यं सर्वशत्रु विशानम् । जयावहं जपं नित्यमक्षयं परमं शिवम् ॥४॥
सर्वमङ्गल माङ्गल्यं सर्वपापप्रणाशनम् । चिन्ताशोक प्रशमनमायुर्वर्धनमुत्तमम् ॥५ ॥
विनियोगः – ॐ अस्य श्रीआदित्य हृदय स्तोत्रस्यागस्त्य ऋषिः , अनुष्टुप् छन्दः , आदित्यहृदय भूतो भगवान् ब्रह्मा देवता , निरस्ताशेषविनतया ब्रह्मविद्यासिद्धौ सर्वशत्रुक्षयार्थ पूर्वकं सर्वत्र जयसिद्धौ च विनियोगः ।
ऋष्यादिन्यास : – अगस्त्य ऋषये नमः शिरसि । अनुष्टुप् छन्दसे नमः मुखे । आदित्य हृदयभूत ब्रह्मदेवतायै नमः हृदि । ॐ बीजाय नमः गुह्ये । रश्मिमते शक्तये नमः पादयोः । ॐ तत्सवितुरित्यादि गायत्री कीलकाय नमः नाभौ । विनियोगाय नमः सर्वाङ्गे ।
करन्यासः- इस स्तोत्र के करन्यासादि तीन तरह से हो सकते है । केवल प्रणव से , गायत्री मंत्र से अथवा रश्मिमते इत्यादि छ : नाम मंत्रों से ।
ॐ रश्मिमते अंगुष्ठाभ्यां नमः , हृदयाय नमः । ॐ समुद्यते तर्जनीभ्यां नमः , शिरसे स्वाहा । ॐ देवासुरनमस्कृताय मध्यमाभ्यां नमः ,शिखायै वषट् । ॐ विवस्वते अनामिकाभ्यां नम , कवचाय हुम् । ॐ भास्कराय कनिष्ठिकाभ्यां नमः , नेत्रत्रयाय वौषट् । ॐ भुवनेश्वराय करतलकरपृष्ठाभ्यां नमः , अस्त्राय फट ।
इसके बाद गायत्री मंत्र का ध्यान कर स्तोत्र का पाठ करें ।
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् । पूजयस्व विवस्वन्तं भास्कर भुवनेश्वरम् ॥१॥
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः । एष देवासुरगणाँल्लोकान् पाति गभस्तिभि ॥२॥
एष ब्रह्मा च विष्णुश्च शिवः स्कंदः प्रजापतिः । महेन्द्रो धनदः कालो यमः सोमो ह्यपांपतिः ॥३॥
पितरो वसवः साध्या अश्विनौ मरुतोमनुः । वायुर्वह्निः प्रजाः प्राण ऋतुकर्ता प्रभाकरः ॥४॥
आदित्य सविता सूर्यः खगः पूषा गभस्तिमान् । सुवर्णसदृशो भानुहिरण्यरेता दिवाकरः ॥५॥
हरिदश्वः सहस्त्रार्चि सप्तसप्तिर्मरीचिमान् । तिमिरोन्मथनः शम्भुस्त्वष्टा मार्तण्डकोंऽशुमान् ॥६॥
हिरण्यगर्भ शिशिरस्तपनोऽहस्करो रविः । अग्निर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः ॥७॥
व्योमनाथस्तमोभेदी ऋग्यजुः सामपारगः । घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवंगमः ॥८॥
आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः । कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः ॥९॥
नक्षत्र ग्रह ताराणामधिपो विश्वभावनः । तेज सामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते ॥१०॥
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः । ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥११॥
जयाय जयभद्राय हर्यश्वाय नमो नमः । नमो नमः सहस्रांशो आदित्याय नमो नमः ॥१२॥
नमः उग्राय वीराय सारङ्गाय नमो नमः । नमः पद्म प्रबोधाय प्रचण्डाय नमो ऽस्तुते ॥१३॥
ब्रह्मेशानाच्युतेशाय सूरायादित्य वर्चसे । भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥१४॥
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने । कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥१५॥
तप्त चामीकराभाय हरये विश्वकर्मणे । नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥१६॥
नाशयेत्येष वै भूतं तमेव सृजतिप्रभुः । पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥१७॥
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः । एष चैवाग्नि होत्रं च फलं चैवाग्निहोत्रिणाम् ॥१८॥
देवाश्च क्रतवश्चैव क्रतूनां फलमेव च । यानि कृत्यानि लोकेषु सर्वेषु परमप्रभुः ॥१९॥
एनमापत्सु कृच्छेषु कान्तारेषु भयेषु च । कीर्तयन् पुरुषः कश्चिन्नवसीदति राघव ॥२०॥
पूजयस्वै नमेकाग्रो देवदेवं जगत्पतिम् । एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यति ॥२१॥
अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि । एव मुक्त्वा ततोऽगस्त्यो जगाम स यथागतम् ॥२२॥
वैसे तो मूल स्तोत्र यहीं तक है , परन्तु कुछ विद्वान आगे के चार श्लोक पढ़ते हैं ।
एतच्छ्रुत्वा महातेजा नष्टलोकोऽभवत् तदा । धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥१॥
आदित्यं प्रेक्ष्य जप्त्वेदं हर्षमवाप्तवान् । त्रिराचम्य शुचिर्भूषा धनुरादाय वीर्यवान् ॥२॥
रावणं प्रेक्ष्य हृष्टात्मा जयार्थं समुपागमत् । सर्वयत्नेव महता वृतस्तस्य वधेऽभवत् ॥३॥
अथ रविवरदन्निरीक्ष्यरामं मुदितमनाः परमं प्रहृज्यमाणः । निशिचरपतिं संक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ॥४॥
॥ इति वाल्मीकीय रामायणे रामरावण युद्ध परिश्रान्ते अगस्त्य ऋषि कृत आदित्य स्तोत्रं समाप्तम् ॥
